|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.58. अध्यायः 058
Mahabharata - Vana Parva - Chapter Topics
द्यूते पुष्करजितेन नलेन दमयन्त्या सह वनप्रवेशः ॥ 1 ॥ अन्तरिक्षे पक्षिरूपेण समुत्पतद्भिरक्षैरात्मजिघृक्षोर्नलस्य अन्तरीयवस्त्रापकर्षणेन पलायनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-58-0x(1927)(18042)
ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः।
पुष्करेण हृतं राज्यं यच्चापि वसु किंचन ॥ 3-58-1(18043)
हृतराज्यं नलं राजन्प्रहसन्पुष्करोऽब्रवीत्।
द्यूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव ॥ 3-58-2(18044)
शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया।
दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ॥ 3-58-3(18045)
पुष्रेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना।
व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत् ॥ 3-58-4(18046)
ततः पुष्करमालोक्य नलः परममन्युमान्।
`उवाच विद्यतेऽन्यच्च धनं मम नराधम ॥ 3-58-5(18047)
षणरूपेण निक्षिप्य पुण्यश्लोकः सुदुर्मनाः।
उत्तरीयं तथा वस्त्रं तस्याश्चाभरणानि च'।
उन्सृज्य सर्वगात्रभ्यो भूषणानि सहायशाः ॥ 3-58-6(18048)
सुकवासा ह्यसंवीतः सुहृच्छोकविवर्धनः।
निश्चक्राम ततोराजा त्यक्त्वा सुविपुलां श्रियम् ॥ 3-58-7(18049)
दमयन्त्येकवस्त्राऽथ गच्छन्तं पृष्ठतोऽन्वगात्।
स तया नगराभ्याशे त्रिरात्रं नैपधोऽवसत् ॥ 3-58-8(18050)
पुष्करस्तु महाराज धोषयामास वै पुरे।
नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥ 3-58-9(18051)
पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च।
पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर ॥ 3-58-10(18052)
स तथा नगराभ्याशे सत्कारार्हो न सन्कृतः।
त्रिगत्रमुपितो राजा जलमात्रेण वर्तयन् ॥ 3-58-11(18053)
[पीड्यमानः क्षुधा तत्र फलमृलानि कर्पयन्।
प्रातिष्ठत ततोराजा दमयन्ती तमन्वगात् ॥] 3-58-12(18054)
क्षुधया पीड्यमानम्तु नलो बहुतिथेऽहनि।
अपश्यच्छकुनान्कांश्रिद्धिरण्यसदृशच्छदान् ॥ 3-58-13(18055)
स चिन्तयामास तदा निपधाधिपतिर्बली।
अस्ति भक्ष्यो ममाद्यापि वसु चेदं भविष्यति ॥ 3-58-14(18056)
ततस्तानन्तरीयेण वाससा स समावृणोत्।
तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा ॥ 3-58-15(18057)
उन्पतन्तः खगा वाक्यमेतदाहुस्ततो नलम्।
दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥ 3-58-16(18058)
वयमक्षाः सुदुर्बुद्धे तववासो जिहीर्षवः।
आगता न हि नः प्रीतिः सवाससि गते त्वयि ॥ 3-58-17(18059)
नान्समीक्ष्य गतानक्षानात्मानं च विवाससम्।
पुण्यश्लोकस्तदा राजा दमयन्तीमथाब्रवीत् ॥ 3-58-18(18060)
येषां प्रकोपादैश्वर्यान्प्रच्युतोऽहमनिन्दिते।
प्राणयात्रां न विन्देयं दुःखितः क्षुधयाऽन्वितः ॥ 3-58-19(18061)
येषां कृते न सत्कारमकुर्वन्मयि नैषधाः।
इमे ते शकुना भूत्वा वासश्चाषहरन्ति मे ॥ 3-58-20(18062)
वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः।
भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः ॥ 3-58-21(18063)
एते गच्छन्ति वहवः पन्थानो दिणापथम्।
अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥ 3-58-22(18064)
एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा।
आश्रमाश्च महर्षीणां बहुमूलफलान्विताः ॥ 3-58-23(18065)
एष पन्था विदर्भाणामेष यास्यति कोसलान्।
अतःपरं च देशोऽयं दक्षिणो दक्षिणापथः ॥ 3-58-24(18066)
एतद्वाक्यं नलो राजा दमयन्तीं समाहितः।
उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत ॥ 3-58-25(18067)
ततः सा वाष्पकलया वाचा दुःखेन कर्शिता।
उवाच दमयन्ती तं नैषधं करुणं वचः ॥ 3-58-26(18068)
उद्वेषते मे हृदयं सीदन्त्यङ्गानि सर्वशः।
तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः ॥ 3-58-27(18069)
हृतराज्यं हृतद्रव्यं विवस्त्रं क्षुच्छ्रमान्वितम्।
कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने ॥ 3-58-28(18070)
श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम्।
वने घोरे महाराज नाशयिष्याम्यहं क्लमम् ॥ 3-58-29(18071)
न च भार्यासमं किंचिन्नरस्यार्तस्य भेषजम्।
नित्यं हि सर्वदुःखेषु सत्यमेतद्व्रवीमि ते ॥ 3-58-30(18072)
नल उवाच। 3-58-31x(1928)
एवमेतद्यथाऽऽन्थ त्वं दमयन्ति सुमध्यमे।
नास्ति बार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥ 3-58-31(18073)
न चाहं त्यक्तुकामस्त्वां किमलं भीरु शङ्कसे।
त्यजेयमहमात्मानं न चैव त्वामनिन्दिते ॥ 3-58-32(18074)
दमयन्त्युवाच। 3-58-33x(1929)
यदि मां त्वं महाराज न विहातुमिहच्छसि।
तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥ 3-58-33(18075)
अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि।
चेतसा त्वपकृष्टेन मां त्यजेथा महीपते ॥ 3-58-34(18076)
पन्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम।
अतो निमित्तं शोकं मे वर्धयस्यमरोपम ॥ 3-58-35(18077)
यदि चायमभिप्रायस्तव राजन्भविष्यति।
सहितावेव गच्छावो विदर्भान्यदि मन्यसे ॥ 3-58-36(18078)
विदर्भराजस्तत्र त्वां पूजयिष्यति मानद।
तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥ 3-58-37(18079)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि अष्टपञ्चाशोऽध्यायः ॥ 58 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-58-2 प्रतिपाणः पणनीयं द्रव्यम् ॥ 3-58- अपकृष्ठेन कलिकर्पितन ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|